Sukta 9.63
परि वाजे न वाजयुमव्यो वारेषु सिञ्चत । इन्द्राय मधुमत्तमम् ॥
परि॒ वाजे॒ न वा॑ज॒युमव्यो॒ वारे॑षु सिञ्चत । इन्द्रा॑य॒ मधु॑मत्तमम् ॥
pári vā́je ná vājayúm avyó vā́reṣu siñcata | índrāya mádhumattamam ||
As in a contest for the Vāja, pour all around the vājayú Soma into the woollen straining-fleeces, most honeyed-sweet, for Indra—so the victorious force may be secured.
परि॑ । वाजे॑ । न । वा॒ज॒ऽयुम् । अव्यः॑ । वारे॑षु । सि॒ञ्च॒त॒ । इन्द्रा॑य । मधु॑मत्ऽतमम् ॥परि । वाजे । न । वाजयुम् । अव्यः । वारेषु । सिञ्चत । इन्द्राय । मधुमत्तमम् ॥pari | vāje | na | vāja-yum | avyaḥ | vāreṣu | siñcata | indrāya | madhumat-tamam