Sukta 9.63
अभ्यर्ष सहस्रिणं रयिं गोमन्तमश्विनम् । अभि वाजमुत श्रवः ॥
अ॒भ्य॑र्ष सह॒स्रिणं॑ र॒यिं गोम॑न्तम॒श्विन॑म् । अ॒भि वाज॑मु॒त श्रव॑: ॥
abhy àrṣa sahásriṇaṃ rayíṃ gómantam aśvínam | abhí vā́jam utá śrávaḥ ||
Flow forth toward us with the thousandfold Rayi—rich in rays of light and powers of swift force—and press forward also the Vāja, the plenitude of energy, and the fame that carries the soul’s victory outward.
अ॒भि । अ॒र्ष॒ । स॒ह॒स्रिण॑म् । र॒यिम् । गोऽम॑न्तम् । अ॒श्विन॑म् । अ॒भि । वाज॑म् । उ॒त । श्रवः॑ ॥अभि । अर्ष । सहस्रिणम् । रयिम् । गोमन्तम् । अश्विनम् । अभि । वाजम् । उत । श्रवः ॥abhi | arṣa | sahasriṇam | rayim | go-mantam | aśvinam | abhi | vājam | uta | śravaḥ