Sukta 9.62
पवमान ऋतः कविः सोमः पवित्रमासदत् । दधत्स्तोत्रे सुवीर्यम् ॥
पव॑मान ऋ॒तः क॒विः सोम॑: प॒वित्र॒मास॑दत् । दध॑त्स्तो॒त्रे सु॒वीर्य॑म् ॥
pávamāna ṛtáḥ kavíḥ sómaḥ pavítram ā́sadat | dádhat stotrḗ su-vī́ryam ||
Self-purifying, the seer of the Truth—Soma—has taken his seat in the purifier, placing into our hymn a noble hero-strength.
पव॑मानः । ऋ॒तः । क॒विः । सोमः॑ । प॒वित्र॑म् । आ । अ॒स॒द॒त् । दध॑त् । स्तो॒त्रे । सु॒ऽवीर्य॑म् ॥पवमानः । ऋतः । कविः । सोमः । पवित्रम् । आ । असदत् । दधत् । स्तोत्रे । सुवीर्यम् ॥pavamānaḥ | ṛtaḥ | kaviḥ | somaḥ | pavitram | ā | asadat | dadhat | stotre | su-vīryam