Sukta 9.61
स पवस्व य आविथेन्द्रं वृत्राय हन्तवे । वव्रिवांसं महीरपः ॥
स प॑वस्व॒ य आवि॒थेन्द्रं॑ वृ॒त्राय॒ हन्त॑वे । व॒व्रि॒वांसं॑ म॒हीर॒पः ॥
sá pavasva yá ā́vitha índraṃ vṛtrā́ya hántave | vavrivā́ṃsaṃ mahī́r apáḥ ||
Purify yourself, O Soma—thou who hast helped Indra to strike down Vṛtra—covering him with the vast waters; become in us the force that releases the great streams of consciousness from the knot of obstruction.
सः । प॒व॒स्व॒ । यः । आवि॑थ । इन्द्र॑म् । वृ॒त्राय॑ । हन्त॑वे । व॒व्रि॒ऽवांस॑म् । म॒हीः । अ॒पः ॥सः । पवस्व । यः । आविथ । इन्द्रम् । वृत्राय । हन्तवे । वव्रिवांसम् । महीः । अपः ॥saḥ | pavasva | yaḥ | āvitha | indram | vṛtrāya | hantave | vavri-vāṃsam | mahīḥ | apaḥ