Sukta 9.61
जघ्निर्वृत्रममित्रियं सस्निर्वाजं दिवेदिवे । गोषा उ अश्वसा असि ॥
जघ्नि॑र्वृ॒त्रम॑मि॒त्रियं॒ सस्नि॒र्वाजं॑ दि॒वेदि॑वे । गो॒षा उ॑ अश्व॒सा अ॑सि ॥
jághnir vṛtrám amitríyaṃ sásni r vā́jaṃ divédive | goṣā́ u aśvasā́ asi ||
You are the slayer of the obstructer and the hostile force; you win the plenitude of power day by day. You are a giver of rays (cows) and a giver of swift energies (horses).
जघ्निः॑ । वृ॒त्रम् । अ॒मि॒त्रिय॑म् । सस्निः॑ । वाज॑म् । दि॒वेऽदि॑वे । गो॒ऽसाः । ऊँ॒ इति॑ । अ॒श्व॒ऽसाः । अ॒सि॒ ॥जघ्निः । वृत्रम् । अमित्रियम् । सस्निः । वाजम् । दिवेदिवे । गोसाः । ऊँ इति । अश्वसाः । असि ॥jaghniḥ | vṛtram | amitriyam | sasniḥ | vājam | dive-dive | go-sāḥ | oṃ iti | aśva-sāḥ | asi