Sukta 9.6
अभि त्यं मद्यं मदमिन्दविन्द्र इति क्षर । अभि वाजिनो अर्वतः ॥
अ॒भि त्यं मद्यं॒ मद॒मिन्द॒विन्द्र॒ इति॑ क्षर । अ॒भि वा॒जिनो॒ अर्व॑तः ॥
abhí tyáṃ mádyaṃ mádam índav índra íti kṣara | abhí vājíno árvataḥ ||
Flow forth toward that intoxicating ecstasy of delight, O drop of Soma, ‘for Indra’—so do thou stream. Flow too toward the steeds of plenitude of force, toward the swift carriers of our victory.
अ॒भि । त्यम् । मद्य॑म् । मद॑म् । इन्दो॒ इति॑ । इन्द्रः॑ । इति॑ । क्ष॒र॒ । अ॒भि । वा॒जिनः॑ । अर्व॑तः ॥अभि । त्यम् । मद्यम् । मदम् । इन्दो इति । इन्द्रः । इति । क्षर । अभि । वाजिनः । अर्वतः ॥abhi | tyam | madyam | madam | indo iti | indraḥ | iti | kṣara | abhi | vājinaḥ | arvataḥ