Sukta 9.6
मन्द्रया सोम धारया वृषा पवस्व देवयुः । अव्यो वारेष्वस्मयुः ॥
म॒न्द्रया॑ सोम॒ धार॑या॒ वृषा॑ पवस्व देव॒युः । अव्यो॒ वारे॑ष्वस्म॒युः ॥
mandráyā soma dhā́rayā vṛ́ṣā pavasva devayúḥ | ávyo vā́reṣv asmayúḥ ||
O Soma, flow in a gladdening stream, a bull of force; purify thyself as one who seeks the Gods. In the woolen filters, yearning toward us, take form for our receiving.
म॒न्द्रया॑ । सो॒म॒ । धार॑या । वृषा॑ । प॒व॒स्व॒ । दे॒व॒ऽयुः । अव्यः॑ । वारे॑षु । अ॒स्म॒ऽयुः ॥मन्द्रया । सोम । धारया । वृषा । पवस्व । देवयुः । अव्यः । वारेषु । अस्मयुः ॥mandrayā | soma | dhārayā | vṛṣā | pavasva | deva-yuḥ | avyaḥ | vāreṣu | asma-yuḥ