Sukta 9.59
पवस्वाद्भ्यो अदाभ्यः पवस्वौषधीभ्यः । पवस्व धिषणाभ्यः ॥
पव॑स्वा॒द्भ्यो अदा॑भ्य॒: पव॒स्वौष॑धीभ्यः । पव॑स्व धि॒षणा॑भ्यः ॥
páv asvā́dbhyo adā́bhyaḥ páv asvauṣádhībhyaḥ | páv asva dhiṣáṇābhyaḥ ||
Purify yourself from the invincible waters; purify yourself from the plants: purify yourself from the inspirings (the dhī-powers) within us.
पव॑स्व । अ॒त्ऽभ्यः । अदा॑भ्यः । पव॑स्व । ओष॑धीभ्यः । पव॑स्व । धि॒षणा॑भ्यः ॥पवस्व । अत्भ्यः । अदाभ्यः । पवस्व । ओषधीभ्यः । पवस्व । धिषणाभ्यः ॥pavasva | at-bhyaḥ | adābhyaḥ | pavasva | oṣadhībhyaḥ | pavasva | dhiṣaṇābhyaḥ