Sukta 9.58
आ ययोस्त्रिंशतं तना सहस्राणि च दद्महे । तरत्स मन्दी धावति ॥
आ ययो॑स्त्रिं॒शतं॒ तना॑ स॒हस्रा॑णि च॒ दद्म॑हे । तर॒त्स म॒न्दी धा॑वति ॥
ā yáyos triṃśatáṃ tánā sahásrāṇi ca dadmahe | tarát sa mandī dhā́vati ||
Toward those two (streams/powers) we take and establish—thirty in their extension, and thousands besides; he, the gladdening Soma, crosses beyond and runs on.
आ । ययोः॑ । त्रिं॒शत॑म् । तना॑ । स॒हस्रा॑णि । च॒ । दद्म॑हे । तर॑त् । सः । म॒न्दी । धा॒व॒ति॒ ॥आ । ययोः । त्रिंशतम् । तना । सहस्राणि । च । दद्महे । तरत् । सः । मन्दी । धावति ॥ā | yayoḥ | triṃśatam | tanā | sahasrāṇi | ca | dadmahe | tarat | saḥ | mandī | dhāvati