Sukta 9.57
प्र ते धारा असश्चतो दिवो न यन्ति वृष्टयः । अच्छा वाजं सहस्रिणम् ॥
प्र ते॒ धारा॑ अस॒श्चतो॑ दि॒वो न य॑न्ति वृ॒ष्टय॑: । अच्छा॒ वाजं॑ सह॒स्रिण॑म् ॥
prá te dhā́rā asaścáto divó na yánti vṛṣṭáyaḥ | ácchā vā́jaṃ sahasríṇam ||
Forward go your unceasing streams, like rains from heaven, toward the thousandfold plenitude of force.
प्र । ते॒ । धाराः॑ । अ॒स॒श्चतः॑ । दि॒वः । न । य॒न्ति॒ । वृ॒ष्टयः॑ । अच्छ॑ । वाज॑म् । स॒ह॒स्रिण॑म् ॥प्र । ते । धाराः । असश्चतः । दिवः । न । यन्ति । वृष्टयः । अच्छ । वाजम् । सहस्रिणम् ॥pra | te | dhārāḥ | asaścataḥ | divaḥ | na | yanti | vṛṣṭayaḥ | accha | vājam | sahasriṇam