Sukta 9.53
अया निजघ्निरोजसा रथसंगे धने हिते । स्तवा अबिभ्युषा हृदा ॥
अ॒या नि॑ज॒घ्निरोज॑सा रथसं॒गे धने॑ हि॒ते । स्तवा॒ अबि॑भ्युषा हृ॒दा ॥
ayā́ ní-jaghnír ójasā ratha-saṅgé dháne hité | stavā́ abíbhyuṣā hṛdā́ ||
By this (power) he has smitten down with strength, in the clash of chariots, in the battle set for the prize; I praise (him) with a heart that fears not.
अ॒या । नि॒ऽज॒घ्निः । ओज॑सा । र॒थ॒ऽस॒ङ्गे । धने॑ । हि॒ते । स्तवै॑ । अबि॑भ्युषा । हृ॒दा ॥अया । निजघ्निः । ओजसा । रथसङ्गे । धने । हिते । स्तवै । अबिभ्युषा । हृदा ॥ayā | ni-jaghniḥ | ojasā | ratha-saṅge | dhane | hite | stavai | abibhyuṣā | hṛdā