Sukta 9.53
उत्ते शुष्मासो अस्थू रक्षो भिन्दन्तो अद्रिवः । नुदस्व याः परिस्पृधः ॥
उत्ते॒ शुष्मा॑सो अस्थू॒ रक्षो॑ भि॒न्दन्तो॑ अद्रिवः । नु॒दस्व॒ याः प॑रि॒स्पृध॑: ॥
út te śúṣmāso asthū rakṣó bhindánto adrivaḥ | nudásva yā́ḥ pari-spṛ́dhaḥ ||
Up rise thy forces, O wielder of the pressing-stones, breaking the demonic obstruction; drive away those that press around in hostile rivalry.
उत् । ते॒ । शुष्मा॑सः । अ॒स्थुः॒ । रक्षः॑ । भि॒न्दन्तः॑ । अ॒द्रि॒ऽवः॒ । नु॒दस्व॑ । याः । प॒रि॒ऽस्पृधः॑ ॥उत् । ते । शुष्मासः । अस्थुः । रक्षः । भिन्दन्तः । अद्रिवः । नुदस्व । याः । परिस्पृधः ॥ut | te | śuṣmāsaḥ | asthuḥ | rakṣaḥ | bhindantaḥ | adri-vaḥ | nudasva | yāḥ | pari-spṛdhaḥ