Sukta 9.52
नि शुष्ममिन्दवेषां पुरुहूत जनानाम् । यो अस्माँ आदिदेशति ॥
नि शुष्म॑मिन्दवेषां॒ पुरु॑हूत॒ जना॑नाम् । यो अ॒स्माँ आ॒दिदे॑शति ॥
ní śúṣmam indav eṣā́ṃ púru-hūta jánānām | yó asmā́ṃ ā́dídeśati ||
Lay low, O Indu, the force of those peoples—O much-invoked one—who would point at us to harm and command against us.
नि । शुष्म॑म् । इ॒न्दो॒ । एषा॑म् । पुरु॑ऽहूत । जना॑नाम् । यः । अ॒स्मान् । आ॒ऽदिदे॑शति ॥नि । शुष्मम् । इन्दो । एषाम् । पुरुहूत । जनानाम् । यः । अस्मान् । आदिदेशति ॥ni | śuṣmam | indo iti | eṣām | puru-hūta | janānām | yaḥ | asmān | ādideśati