Sukta 9.52
शतं न इन्द ऊतिभिः सहस्रं वा शुचीनाम् । पवस्व मंहयद्रयिः ॥
श॒तं न॑ इन्द ऊ॒तिभि॑: स॒हस्रं॑ वा॒ शुची॑नाम् । पव॑स्व मंह॒यद्र॑यिः ॥
śatáṃ na indó ūtíbhiḥ sahásraṃ vā śucī́nām | páv asva maṃhayád-rayíḥ ||
O Indu, be to us a hundredfold in thy helps—or a thousandfold—of the pure ones; purify thyself, increasing the wealth of fullness (rayi) within us.
श॒तम् । नः॒ । इ॒न्दो॒ इति॑ । ऊ॒तिऽभिः॑ । स॒हस्र॑म् । वा॒ । शुची॑णाम् । पव॑स्व । मं॒ह॒यत् ऽर॑यिः ॥शतम् । नः । इन्दो इति । ऊतिभिः । सहस्रम् । वा । शुचीणाम् । पवस्व । मंहयत् रयिः ॥śatam | naḥ | indo iti | ūti-bhiḥ | sahasram | vā | śucīṇām | pavasva | maṃhayat-rayiḥ