Sukta 9.52
तव प्रत्नेभिरध्वभिरव्यो वारे परि प्रियः । सहस्रधारो यात्तना ॥
तव॑ प्र॒त्नेभि॒रध्व॑भि॒रव्यो॒ वारे॒ परि॑ प्रि॒यः । स॒हस्र॑धारो या॒त्तना॑ ॥
táva pratnébhir ádhvabhir avyó vā́re pári priyáḥ | sahásra-dhāro yā́t tánā ||
Along thy ancient paths, O dear one, (thou movest) around the woolen strainer; thousand-streamed, go on thy own course of being.
तव॑ । प्र॒त्नेभिः॑ । अध्व॑ऽभिः । अव्यः॑ । वारे॑ । परि॑ । प्रि॒यः । स॒हस्र॑ऽधारः । या॒त् । तना॑ ॥तव । प्रत्नेभिः । अध्वभिः । अव्यः । वारे । परि । प्रियः । सहस्रधारः । यात् । तना ॥tava | pratnebhiḥ | adhva-bhiḥ | avyaḥ | vāre | pari | priyaḥ | sahasra-dhāraḥ | yāt | tanā