Sukta 9.51
त्वं हि सोम वर्धयन्त्सुतो मदाय भूर्णये । वृषन्त्स्तोतारमूतये ॥
त्वं हि सो॑म व॒र्धय॑न्त्सु॒तो मदा॑य॒ भूर्ण॑ये । वृष॑न्त्स्तो॒तार॑मू॒तये॑ ॥
tváṃ hí soma vardháyan sutó mádāya bhū́rṇaye | vṛ́ṣan stotā́ram ūtáye ||
For thou, O Soma, when pressed, growest in thy outpouring for the ecstasy; O mighty Bull, thou increasest the singer for his protection and help.
त्वम् । हि । सो॒म॒ । व॒र्धय॑न् । सु॒तः । मदा॑य । भूर्ण॑ये । वृष॑न् । स्तो॒तार॑म् । ऊ॒तये॑ ॥त्वम् । हि । सोम । वर्धयन् । सुतः । मदाय । भूर्णये । वृषन् । स्तोतारम् । ऊतये ॥tvam | hi | soma | vardhayan | sutaḥ | madāya | bhūrṇaye | vṛṣan | stotāram | ūtaye