Sukta 9.51
तव त्य इन्दो अन्धसो देवा मधोर्व्यश्नते । पवमानस्य मरुतः ॥
तव॒ त्य इ॑न्दो॒ अन्ध॑सो दे॒वा मधो॒र्व्य॑श्नते । पव॑मानस्य म॒रुत॑: ॥
táva tyá índo ándhaso devā́ mádhor ví aśnate | pávamānasya marútaḥ ||
O Indu (Soma), of that thy pressing-essence the gods taste out the honeyed delight; and the Maruts too (share) of the self-purifying flow.
तव॑ । त्ये । इ॒न्दो॒ इति॑ । अन्ध॑सः । दे॒वाः । मधोः॑ । वि । अ॒श्न॒ते॒ । पव॑मानस्य । म॒रुतः॑ ॥तव । त्ये । इन्दो इति । अन्धसः । देवाः । मधोः । वि । अश्नते । पवमानस्य । मरुतः ॥tava | tye | indo iti | andhasaḥ | devāḥ | madhoḥ | vi | aśnate | pavamānasya | marutaḥ