Sukta 9.51
अभ्यर्ष विचक्षण पवित्रं धारया सुतः । अभि वाजमुत श्रवः ॥
अ॒भ्य॑र्ष विचक्षण प॒वित्रं॒ धार॑या सु॒तः । अ॒भि वाज॑मु॒त श्रव॑: ॥
abhý arṣa vi-cákṣaṇa pavítraṃ dhā́rayā sutáḥ | abhí vā́jam utá śrávaḥ ||
Flow forth, O clear-seeing one, pressed Soma, along the stream through the filter; flow toward plenitude of force (vāja) and toward the hearing-fame (śravas) of the soul.
अ॒भि । अ॒र्ष॒ । वि॒ऽच॒क्ष॒ण॒ । प॒वित्र॑म् । धार॑या । सु॒तः । अ॒भि । वाज॑म् । उ॒त । श्रवः॑ ॥अभि । अर्ष । विचक्षण । पवित्रम् । धारया । सुतः । अभि । वाजम् । उत । श्रवः ॥abhi | arṣa | vi-cakṣaṇa | pavitram | dhārayā | sutaḥ | abhi | vājam | uta | śravaḥ