Sukta 9.50
अव्यो वारे परि प्रियं हरिं हिन्वन्त्यद्रिभिः । पवमानं मधुश्चुतम् ॥
अव्यो॒ वारे॒ परि॑ प्रि॒यं हरिं॑ हिन्व॒न्त्यद्रि॑भिः । पव॑मानं मधु॒श्चुत॑म् ॥
avyó vā́re pári priyáṃ hárim hinvánty ádri-bhiḥ | pavámānaṃ madhú-ścutam ||
Around the beloved tawny one, in the woolen enclosure, they drive him on with the pressing-stones—Soma purifying himself, dripping sweetness of delight.
अव्यः॑ । वारे॑ । परि॑ । प्रि॒यम् । हरि॑म् । हि॒न्व॒न्ति॒ । अद्रि॑ऽभिः । पव॑मानम् । म॒धु॒ऽश्चुत॑म् ॥अव्यः । वारे । परि । प्रियम् । हरिम् । हिन्वन्ति । अद्रिभिः । पवमानम् । मधुश्चुतम् ॥avyaḥ | vāre | pari | priyam | harim | hinvanti | adri-bhiḥ | pavamānam | madhu-ścutam