Sukta 9.50
प्रसवे त उदीरते तिस्रो वाचो मखस्युवः । यदव्य एषि सानवि ॥
प्र॒स॒वे त॒ उदी॑रते ति॒स्रो वाचो॑ मख॒स्युव॑: । यदव्य॒ एषि॒ सान॑वि ॥
pra-savé ta udī́rate tisró vā́co makhasyúvaḥ | yád avyé éṣi sánāvi ||
At thy impulsion the threefold words arise—seeking the sacrifice—when thou goest upon the sheep’s wool, the ridge of the strainer.
प्र॒ऽस॒वे । ते॒ । उत् । ई॒र॒ते॒ । ति॒स्रः । वाचः॑ । म॒ख॒स्युवः॑ । यत् । अव्ये॑ । एषि॑ । सान॑वि ॥प्रसवे । ते । उत् । ईरते । तिस्रः । वाचः । मखस्युवः । यत् । अव्ये । एषि । सानवि ॥pra-save | te | ut | īrate | tisraḥ | vācaḥ | makhasyuvaḥ | yat | avye | eṣi | sānavi