Sukta 9.50
उत्ते शुष्मास ईरते सिन्धोरूर्मेरिव स्वनः । वाणस्य चोदया पविम् ॥
उत्ते॒ शुष्मा॑स ईरते॒ सिन्धो॑रू॒र्मेरि॑व स्व॒नः । वा॒णस्य॑ चोदया प॒विम् ॥
út te śúṣmāsa īrate síndhor ū́rmer iva svanáḥ | vāṇásya codayā pavím ||
Up rise thy puissant energies; like the roar of a river-wave is thy sound: urge on the driving force of the word, the edge that cleaves a path.
उत् । ते॒ । शुष्मा॑सः । ई॒र॒ते॒ । सिन्धोः॑ । ऊ॒र्मेःऽइ॑व । स्व॒नः । वा॒णस्य॑ । चो॒द॒य॒ । प॒विम् ॥उत् । ते । शुष्मासः । ईरते । सिन्धोः । ऊर्मेःइव । स्वनः । वाणस्य । चोदय । पविम् ॥ut | te | śuṣmāsaḥ | īrate | sindhoḥ | ūrmeḥ-iva | svanaḥ | vāṇasya | codaya | pavim