Sukta 9.5
विश्वे देवाः स्वाहाकृतिं पवमानस्या गत । वायुर्बृहस्पतिः सूर्योऽग्निरिन्द्रः सजोषसः ॥
विश्वे॑ देवा॒: स्वाहा॑कृतिं॒ पव॑मान॒स्या ग॑त । वा॒युर्बृह॒स्पति॒: सूर्यो॒ऽग्निरिन्द्र॑: स॒जोष॑सः ॥
víśve devā́ḥ svā́hā-kṛtiṃ pávamānasya ā́ gata | vāyúr bṛ́haspátiḥ sū́ryo ’gnír índraḥ sajóṣasaḥ ||
Let all the Gods come to the offering shaped by the inner cry ‘svāhā’ of the purifying Soma. Vāyu, Bṛhaspati, Sūrya, Agni and Indra—may these powers arrive in one accord, harmonised in their working within us.
विश्वे॑ । देवाः॑ । स्वाहा॑ऽकृतिम् । पव॑मानस्य । आ । ग॒त॒ । वा॒युः । बृह॒स्पतिः॑ । सूर्यः॑ । अ॒ग्निः । इन्द्रः॑ स॒जोष॑सः ॥विश्वे । देवाः । स्वाहाकृतिम् । पवमानस्य । आ । गत । वायुः । बृहस्पतिः । सूर्यः । अग्निः । इन्द्रः सजोषसः ॥viśve | devāḥ | svāhā-kṛtim | pavamānasya | ā | gata | vāyuḥ | bṛhaspatiḥ | sūryaḥ | agniḥ | indraḥ | sajoṣasaḥ