Sukta 9.49
स न ऊर्जे व्यव्ययं पवित्रं धाव धारया । देवासः शृणवन्हि कम् ॥
स न॑ ऊ॒र्जे व्य१॒॑व्ययं॑ प॒वित्रं॑ धाव॒ धार॑या । दे॒वास॑: शृ॒णव॒न्हि क॑म् ॥
sá na ūrjé ví avyáyaṃ pavítraṃ dhāva dhā́rayā | devā́saḥ śṛṇávann hí kam ||
He, for our increase of vital plenitude, runs forth—imperishable—through the filter in a streaming current; the gods indeed hear that call within us.
सः । नः॒ । ऊ॒र्जे । वि । अ॒व्यय॑म् । प॒वित्र॑म् । धा॒व॒ । धार॑या । दे॒वासः॑ । शृ॒णव॑न् । हि । क॒म् ॥सः । नः । ऊर्जे । वि । अव्ययम् । पवित्रम् । धाव । धारया । देवासः । शृणवन् । हि । कम् ॥saḥ | naḥ | ūrje | vi | avyayam | pavitram | dhāva | dhārayā | devāsaḥ | śṛṇavan | hi | kam