Sukta 9.49
पवमानो असिष्यदद्रक्षांस्यपजङ्घनत् । प्रत्नवद्रोचयन्रुचः ॥
पव॑मानो असिष्यद॒द्रक्षां॑स्यप॒जङ्घ॑नत् । प्र॒त्न॒वद्रो॒चय॒न्रुच॑: ॥
pavámāno asisyadat rakṣā́ṃsy apa-jaṅghanat | pratná-vad rocáyan rúcaḥ ||
As he purifies himself, he rushes onward and drives away the powers of obscurity; like the ancient one, he makes the lights blaze out again.
पव॑मानः । अ॒सि॒स्य॒द॒त् । रक्षां॑सि । अ॒प॒ऽजङ्घ॑नत् । प्र॒त्न॒ऽवत् । रो॒चय॑न् । रुचः॑ ॥पवमानः । असिस्यदत् । रक्षांसि । अपजङ्घनत् । प्रत्नवत् । रोचयन् । रुचः ॥pavamānaḥ | asisyadat | rakṣāṃsi | apa-jaṅghanat | pratna-vat | rocayan | rucaḥ