Sukta 9.48
विश्वस्मा इत्स्वर्दृशे साधारणं रजस्तुरम् । गोपामृतस्य विर्भरत् ॥
विश्व॑स्मा॒ इत्स्व॑र्दृ॒शे साधा॑रणं रज॒स्तुर॑म् । गो॒पामृ॒तस्य॒ विर्भ॑रत् ॥
víśvasmā ít svàr-dṛśe sā́dhāraṇaṃ rajás-turám | gopā́m ṛtásya vír bharat ||
To every seer of the light he brings the common treasure—swift across the mid-worlds—bringing the guardian of the Truth (ṛta).
विश्व॑स्मै । इत् । स्वः॑ । दृ॒शे । साधा॑रणम् । र॒जः॒ऽतुर॑म् । गो॒पाम् । ऋ॒तस्य॑ । विः । भ॒र॒त् ॥विश्वस्मै । इत् । स्वः । दृशे । साधारणम् । रजःतुरम् । गोपाम् । ऋतस्य । विः । भरत् ॥viśvasmai | it | svaḥ | dṛśe | sādhāraṇam | rajaḥ-turam | gopām | ṛtasya | viḥ | bharat