Sukta 9.48
अतस्त्वा रयिमभि राजानं सुक्रतो दिवः । सुपर्णो अव्यथिर्भरत् ॥
अत॑स्त्वा र॒यिम॒भि राजा॑नं सुक्रतो दि॒वः । सु॒प॒र्णो अ॑व्य॒थिर्भ॑रत् ॥
atáṣ tvā rayím abhí rājā́naṃ sukrato diváḥ | supárṇo avyathír bharat ||
Therefore the Bird of fair wing, untroubled, bears to thee—O king—abundance from heaven, O strong in right intelligence.
अतः॑ । त्वा॒ । र॒यिम् । अ॒भि । राजा॑नम् । सु॒क्र॒तो॒ इति॑ सुऽक्रतो । दि॒वः । सु॒ऽप॒र्णः । अ॒व्य॒थिः । भ॒र॒त् ॥अतः । त्वा । रयिम् । अभि । राजानम् । सुक्रतो इति सुक्रतो । दिवः । सुपर्णः । अव्यथिः । भरत् ॥ataḥ | tvā | rayim | abhi | rājānam | sukrato itisu-krato | divaḥ | su-parṇaḥ | avyathiḥ | bharat