Sukta 9.47
स्वयं कविर्विधर्तरि विप्राय रत्नमिच्छति । यदी मर्मृज्यते धियः ॥
स्व॒यं क॒विर्वि॑ध॒र्तरि॒ विप्रा॑य॒ रत्न॑मिच्छति । यदी॑ मर्मृ॒ज्यते॒ धिय॑: ॥
svayáṃ kavír vidhartári víprāya rátnam icchati | yadī́ marmṛ́jyate dhíyaḥ ||
He, the seer by his own nature, in the upholding foundation, seeks the treasure for the illumined one—when the thoughts are polished and made pure.
स्व॒यम् । क॒विः । वि॒ऽध॒र्तरि॑ । विप्रा॑य । रत्न॑म् । इ॒च्छ॒ति॒ । यदि॑ । म॒र्मृ॒ज्यते॑ । धियः॑ ॥स्वयम् । कविः । विधर्तरि । विप्राय । रत्नम् । इच्छति । यदि । मर्मृज्यते । धियः ॥svayam | kaviḥ | vi-dhartari | viprāya | ratnam | icchati | yadi | marmṛjyate | dhiyaḥ