Sukta 9.47
आत्सोम इन्द्रियो रसो वज्रः सहस्रसा भुवत् । उक्थं यदस्य जायते ॥
आत्सोम॑ इन्द्रि॒यो रसो॒ वज्र॑: सहस्र॒सा भु॑वत् । उ॒क्थं यद॑स्य॒ जाय॑ते ॥
āt sóma indriyò raso vájraḥ sahasrasā́ bhuvat | uktháṃ yád asya jā́yate ||
From this Soma there arises the force of Indra—its rapture becomes the thunderbolt of a thousand powers—whenever the word of praise is born from him (in us).
आत् । सोमः॑ । इ॒न्द्रि॒यः । रसः॑ । वज्रः॑ । स॒ह॒स्र॒ऽसाः । भु॒व॒त् । उ॒क्थम् । यत् । अ॒स्य॒ । जाय॑ते ॥आत् । सोमः । इन्द्रियः । रसः । वज्रः । सहस्रसाः । भुवत् । उक्थम् । यत् । अस्य । जायते ॥āt | somaḥ | indriyaḥ | rasaḥ | vajraḥ | sahasra-sāḥ | bhuvat | uktham | yat | asya | jāyate