Sukta 9.46
स पवस्व धनंजय प्रयन्ता राधसो महः । अस्मभ्यं सोम गातुवित् ॥
स प॑वस्व धनंजय प्रय॒न्ता राध॑सो म॒हः । अ॒स्मभ्यं॑ सोम गातु॒वित् ॥
sá pavasva dhanaṁ-jaya prāyantā́ rādhaso maháḥ | asmábhyaṁ soma gātú-vit ||
Do thou flow purified, O winner of plenitude; bringer-forward of the great felicities—O Soma, finder of the path, for us.
सः । प॒व॒स्व॒ । ध॒न॒म्ऽज॒य॒ । प्र॒ऽय॒न्ता । राध॑सः । म॒हः । अ॒स्मभ्य॑म् । सो॒म॒ । गा॒तु॒ऽवित् ॥सः । पवस्व । धनम्जय । प्रयन्ता । राधसः । महः । अस्मभ्यम् । सोम । गातुवित् ॥saḥ | pavasva | dhanam-jaya | pra-yantā | rādhasaḥ | mahaḥ | asmabhyam | soma | gātu-vit