Sukta 9.41
आ पवस्व महीमिषं गोमदिन्दो हिरण्यवत् । अश्वावद्वाजवत्सुतः ॥
आ प॑वस्व म॒हीमिषं॒ गोम॑दिन्दो॒ हिर॑ण्यवत् । अश्वा॑व॒द्वाज॑वत्सु॒तः ॥
ā́ pavasva mahī́m íṣaṃ gómad indo híraṇyavat | áśvāvad vā́javat sutáḥ ||
Flow toward us, O Indu, bringing a vast nourishment—rich in rays (cows), rich in luminous splendour (gold), rich in life-force (horses), rich in plenitude of power (vāja)—you who are pressed out for the work.
आ । प॒व॒स्व॒ । म॒हीम् । इष॑म् । गोऽम॑त् । इ॒न्दो॒ इति॑ । हिर॑ण्यऽवत् । अश्व॑ऽवत् । वाज॑ऽवत् । सु॒तः ॥आ । पवस्व । महीम् । इषम् । गोमत् । इन्दो इति । हिरण्यवत् । अश्ववत् । वाजवत् । सुतः ॥ā | pavasva | mahīm | iṣam | go-mat | indo iti | hiraṇya-vat | aśva-vat | vāja-vat | sutaḥ