Sukta 9.40
विश्वा सोम पवमान द्युम्नानीन्दवा भर । विदाः सहस्रिणीरिषः ॥
विश्वा॑ सोम पवमान द्यु॒म्नानी॑न्द॒वा भ॑र । वि॒दाः स॑ह॒स्रिणी॒रिष॑: ॥
víśvā soma pavamāna dyumnā́nīndavā bhara | vidā́ḥ sahasríṇīr íṣaḥ ||
O Soma, purifying, O Indu, bring all the luminous powers of accomplishment; win for us the thousandfold impulsions of increase—energies that feed the soul’s ascent.
विश्वा॑ । सो॒म॒ । प॒व॒मा॒न॒ । द्यु॒म्नानि॑ । इ॒न्दो॒ इति॑ । आ । भ॒र॒ । वि॒दाः । स॒ह॒स्रिणीः॑ । इषः॑ ॥विश्वा । सोम । पवमान । द्युम्नानि । इन्दो इति । आ । भर । विदाः । सहस्रिणीः । इषः ॥viśvā | soma | pavamāna | dyumnāni | indo iti | ā | bhara | vidāḥ | sahasriṇīḥ | iṣaḥ