Sukta 9.40
पुनानो अक्रमीदभि विश्वा मृधो विचर्षणिः । शुम्भन्ति विप्रं धीतिभिः ॥
पु॒ना॒नो अ॑क्रमीद॒भि विश्वा॒ मृधो॒ विच॑र्षणिः । शु॒म्भन्ति॒ विप्रं॑ धी॒तिभि॑: ॥
punānáḥ akramīd abhí víśvā mṛ́dho ví-carṣaṇiḥ | śúmbhanti vípraṃ dhī́ti-bhiḥ ||
Purifying himself, he strides against all assaults; the wide-ranging one—by illumined thoughts—they adorn the seer-force within, making it fit for the truth.
पु॒ना॒नः । अ॒क्र॒मी॒त् । अ॒भि । विश्वाः॑ । मृधः॑ । विऽच॑र्षणिः । शु॒म्भन्ति॑ । विप्र॑म् । धी॒तिऽभिः॑ ॥पुनानः । अक्रमीत् । अभि । विश्वाः । मृधः । विचर्षणिः । शुम्भन्ति । विप्रम् । धीतिभिः ॥punānaḥ | akramīt | abhi | viśvāḥ | mṛdhaḥ | vi-carṣaṇiḥ | śumbhanti | vipram | dhīti-bhiḥ