Sukta 9.4
तव क्रत्वा तवोतिभिर्ज्योक्पश्येम सूर्यम् । अथा नो वस्यसस्कृधि ॥
तव॒ क्रत्वा॒ तवो॒तिभि॒र्ज्योक्प॑श्येम॒ सूर्य॑म् । अथा॑ नो॒ वस्य॑सस्कृधि ॥
táva krátvā távótibhir jyók paśyema sū́ryam | áthā no vásyasas kṛdhi ||
By your effective will and by your helps may we behold the Sun for a long continuance; then shape us into the better being.
तव॑ । क्रत्वा॑ । तव॑ । ऊ॒तिऽभिः॑ । ज्योक् । प॒श्ये॒म॒ । सूर्य॑म् । अथ॑ । नः॒ । वस्य॑सः । कृ॒धि॒ ॥तव । क्रत्वा । तव । ऊतिभिः । ज्योक् । पश्येम । सूर्यम् । अथ । नः । वस्यसः । कृधि ॥tava | kratvā | tava | ūti-bhiḥ | jyok | paśyema | sūryam | atha | naḥ | vasyasaḥ | kṛdhi