Sukta 9.4
त्वं सूर्ये न आ भज तव क्रत्वा तवोतिभिः । अथा नो वस्यसस्कृधि ॥
त्वं सूर्ये॑ न॒ आ भ॑ज॒ तव॒ क्रत्वा॒ तवो॒तिभि॑: । अथा॑ नो॒ वस्य॑सस्कृधि ॥
tváṃ sū́rye na ā́ bhaja táva krátvā távótibhiḥ | áthā no vásyasas kṛdhi ||
O Soma, share us in the Sun—by your effective will and by your helps; then shape us into the more excellent condition.
त्वम् । सूर्ये॑ । नः॒ । आ । भ॒ज॒ । तव॑ । क्रत्वा॑ । तव॑ । ऊ॒तिऽभिः॑ । अथ॑ । नः॒ । वस्य॑सः । कृ॒धि॒ ॥त्वम् । सूर्ये । नः । आ । भज । तव । क्रत्वा । तव । ऊतिभिः । अथ । नः । वस्यसः । कृधि ॥tvam | sūrye | naḥ | ā | bhaja | tava | kratvā | tava | ūti-bhiḥ | atha | naḥ | vasyasaḥ | kṛdhi