Sukta 9.39
समीचीना अनूषत हरिं हिन्वन्त्यद्रिभिः । योनावृतस्य सीदत ॥
स॒मी॒ची॒ना अ॑नूषत॒ हरिं॑ हिन्व॒न्त्यद्रि॑भिः । योना॑वृ॒तस्य॑ सीदत ॥
samīcīnā́ anūṣata hárim hinvánty ádri-bhiḥ | yónāv ṛtásya sī́dat(a) ||
The rightly-directed powers chant to him; they impel the tawny one with the pressing-stones: sit in the womb of the Truth, in the ordered seat of the rite within us.
स॒मी॒ची॒नाः । अ॒नू॒ष॒त॒ । हरि॑म् । हि॒न्व॒न्ति॒ । अद्रि॑ऽभिः । योनौ॑ । ऋ॒तस्य॑ । सी॒द॒त्च ॥समीचीनाः । अनूषत । हरिम् । हिन्वन्ति । अद्रिभिः । योनौ । ऋतस्य । सीदत्च ॥samīcīnāḥ | anūṣata | harim | hinvanti | adri-bhiḥ | yonau | ṛtasya | sīdata