Sukta 9.38
एष उ स्य वृषा रथोऽव्यो वारेभिरर्षति । गच्छन्वाजं सहस्रिणम् ॥
ए॒ष उ॒ स्य वृषा॒ रथोऽव्यो॒ वारे॑भिरर्षति । गच्छ॒न्वाजं॑ सह॒स्रिण॑म् ॥
eṣa u sya vṛṣā ratho 'vyo vārebhir arṣati | gacchan vājaṃ sahasriṇam ||
This indeed is that strong Bull, the chariot; with the imperishable coverings he streams on, moving toward the thousandfold plenitude of force.
ए॒षः । ऊँ॒ इति॑ । स्यः । वृषा॑ । रथः॑ । अव्यः॑ । वारे॑भिः । अ॒र्ष॒ति॒ । गच्छ॑न् । वाज॑म् । स॒ह॒स्रिण॑म् ॥एषः । ऊँ इति । स्यः । वृषा । रथः । अव्यः । वारेभिः । अर्षति । गच्छन् । वाजम् । सहस्रिणम् ॥eṣaḥ | oṃ iti | syaḥ | vṛṣā | rathaḥ | avyaḥ | vārebhiḥ | arṣati | gacchan | vājam | sahasriṇam