Sukta 9.36
स विश्वा दाशुषे वसु सोमो दिव्यानि पार्थिवा । पवतामान्तरिक्ष्या ॥
स विश्वा॑ दा॒शुषे॒ वसु॒ सोमो॑ दि॒व्यानि॒ पार्थि॑वा । पव॑ता॒मान्तरि॑क्ष्या ॥
sá víśvā dāśúṣe vásu sómo divyā́ni pā́rthivā | páv atām ā́ntarikṣyā ||
May Soma, as he purifies, bring all riches to the giver—those of heaven and those of earth, and those that belong to the mid-world of life-force.
सः । विश्वा॑ । दा॒शुषे॑ । वसु॑ । सोमः॑ । दि॒व्यानि॑ । पार्थि॑वा । पव॑ताम् । आ । अ॒न्तरि॑क्ष्या ॥सः । विश्वा । दाशुषे । वसु । सोमः । दिव्यानि । पार्थिवा । पवताम् । आ । अन्तरिक्ष्या ॥saḥ | viśvā | dāśuṣe | vasu | somaḥ | divyāni | pārthivā | pavatām | ā | antarikṣyā