Sukta 9.36
शुम्भमान ऋतायुभिर्मृज्यमानो गभस्त्योः । पवते वारे अव्यये ॥
शु॒म्भमा॑न ऋता॒युभि॑र्मृ॒ज्यमा॑नो॒ गभ॑स्त्योः । पव॑ते॒ वारे॑ अ॒व्यये॑ ॥
śumbhámāna ṛtāyúbhir mṛjyámāno gábhastyoḥ | pávate vā́re avyáye ||
Adorned by the seekers of the Truth, cleansed in the hands’ rays, he flows in the imperishable stream—Soma moving as pure order and luminous delight.
शु॒म्भमा॑नः । ऋ॒त॒युऽभिः॑ । मृ॒ज्यमा॑नः । गभ॑स्त्योः । पव॑ते । वारे॑ । अ॒व्यये॑ ॥शुम्भमानः । ऋतयुभिः । मृज्यमानः । गभस्त्योः । पवते । वारे । अव्यये ॥śumbhamānaḥ | ṛtayu-bhiḥ | mṛjyamānaḥ | gabhastyoḥ | pavate | vāre | avyaye