Sukta 9.36
आ दिवस्पृष्ठमश्वयुर्गव्ययुः सोम रोहसि । वीरयुः शवसस्पते ॥
आ दि॒वस्पृ॒ष्ठम॑श्व॒युर्ग॑व्य॒युः सो॑म रोहसि । वी॒र॒युः श॑वसस्पते ॥
ā́ divás pṛṣṭhám aśva-yúr gavya-yúḥ soma rohasi | vīra-yúḥ śávasas pate ||
O Soma, you ascend to the back of heaven, desiring the powers of speed, desiring the rays of illumination, desiring the heroic soul-force—O lord of might.
आ । दि॒वः । पृ॒ष्ठम् । अ॒श्व॒ऽयुः । ग॒व्य॒ऽयुः । सो॒म॒ । रो॒ह॒सि॒ । वी॒र॒ऽयुः । श॒व॒सः॒ । प॒ते॒ ॥आ । दिवः । पृष्ठम् । अश्वयुः । गव्ययुः । सोम । रोहसि । वीरयुः । शवसः । पते ॥ā | divaḥ | pṛṣṭham | aśva-yuḥ | gavya-yuḥ | soma | rohasi | vīra-yuḥ | śavasaḥ | pate