Sukta 9.34
अभीमृतस्य विष्टपं दुहते पृश्निमातरः । चारु प्रियतमं हविः ॥
अ॒भीमृ॒तस्य॑ वि॒ष्टपं॑ दुह॒ते पृश्नि॑मातरः । चारु॑ प्रि॒यत॑मं ह॒विः ॥
abhī́m ṛtásya viṣṭápam duhate pṛ́śni-mātaraḥ | cā́ru priyátamam havíḥ ||
Toward him, to the wide seat of Ṛta, the mothers of the speckled one milk out the fair, most-beloved oblation—an offering of delight that founds the true world in us.
अ॒भि । ई॒म् । ऋ॒तस्य॑ । वि॒ष्टप॑म् । दु॒ह॒ते । पृश्नि॑ऽमातरः । चारु॑ । प्रि॒यऽत॑मम् । ह॒विः ॥अभि । ईम् । ऋतस्य । विष्टपम् । दुहते । पृश्निमातरः । चारु । प्रियतमम् । हविः ॥abhi | īm | ṛtasya | viṣṭapam | duhate | pṛśni-mātaraḥ | cāru | priya-tamam | haviḥ