Sukta 9.33
अभि द्रोणानि बभ्रवः शुक्रा ऋतस्य धारया । वाजं गोमन्तमक्षरन् ॥
अ॒भि द्रोणा॑नि ब॒भ्रव॑: शु॒क्रा ऋ॒तस्य॒ धार॑या । वाजं॒ गोम॑न्तमक्षरन् ॥
abhí droṇāni babhrávaḥ śukrā́ ṛtásya dhā́rayā | vā́jaṃ gómantam akṣaran ||
Toward the tubs the tawny-bright streams have poured, in the current of Ṛta; they drip the plenitude of force rich with rays of knowledge.
अ॒भि । द्रोणा॑नि । ब॒भ्रवः॑ । शु॒क्राः । ऋ॒तस्य॑ । धार॑या । वाज॑म् । गोऽम॑न्तम् । अ॒क्ष॒र॒न् ॥अभि । द्रोणानि । बभ्रवः । शुक्राः । ऋतस्य । धारया । वाजम् । गोमन्तम् । अक्षरन् ॥abhi | droṇāni | babhravaḥ | śukrāḥ | ṛtasya | dhārayā | vājam | go-mantam | akṣaran