Sukta 9.33
प्र सोमासो विपश्चितोऽपां न यन्त्यूर्मयः । वनानि महिषा इव ॥
प्र सोमा॑सो विप॒श्चितो॒ऽपां न य॑न्त्यू॒र्मय॑: । वना॑नि महि॒षा इ॑व ॥
prá sómāso vipaścíto ’pā́ṃ ná yanty ūrmáyaḥ | vánāni mahiṣā́ iva ||
Forth move the Soma-powers, clear in discernment, like waves of the waters; like great bulls they press through the forests of our nature.
प्र । सोमा॑सः । वि॒पः॒ऽचितः॑ । अ॒पाम् । न । य॒न्ति॒ । ऊ॒र्मयः॑ । वना॑नि । म॒हि॒षाःऽइ॑व ॥प्र । सोमासः । विपःचितः । अपाम् । न । यन्ति । ऊर्मयः । वनानि । महिषाःइव ॥pra | somāsaḥ | vipaḥ-citaḥ | apām | na | yanti | ūrmayaḥ | vanāni | mahiṣāḥ-iva