Sukta 9.32
अस्मे धेहि द्युमद्यशो मघवद्भ्यश्च मह्यं च । सनिं मेधामुत श्रवः ॥
अ॒स्मे धे॑हि द्यु॒मद्यशो॑ म॒घव॑द्भ्यश्च॒ मह्यं॑ च । स॒निं मे॒धामु॒त श्रव॑: ॥
asmé dhéhi dyumád yáśo maghávadbhyaś ca máhyaṃ ca | saníṃ médhām utá śrávaḥ ||
In us place luminous glory—on the givers and on me as well—grant also winning increase, the inspired intelligence, and the wide fame that carries the soul.
अ॒स्मे इति॑ । धे॒हि॒ । द्यु॒ऽमत् । यशः॑ । म॒घव॑त्ऽभ्यः । च॒ । मह्य॑म् । च॒ । स॒निम् । मे॒धाम् । उ॒त । श्रवः॑ ॥अस्मे इति । धेहि । द्युमत् । यशः । मघवत्भ्यः । च । मह्यम् । च । सनिम् । मेधाम् । उत । श्रवः ॥asme iti | dhehi | dyu-mat | yaśaḥ | maghavat-bhyaḥ | ca | mahyam | ca | sanim | medhām | uta | śravaḥ