Sukta 9.30
प्र धारा अस्य शुष्मिणो वृथा पवित्रे अक्षरन् । पुनानो वाचमिष्यति ॥
प्र धारा॑ अस्य शु॒ष्मिणो॒ वृथा॑ प॒वित्रे॑ अक्षरन् । पु॒ना॒नो वाच॑मिष्यति ॥
prá dhā́rā asya śuṣmíṇo vṛ́thā pavítre akṣaran | punānáḥ vā́cam iṣyati ||
Forth flow the streams of this mighty one, freely through the filter; and as he purifies himself, he urges and sets in motion the inspired Word within us.
प्र । धाराः॑ । अ॒स्य॒ । शु॒ष्मिणः॑ । वृथा॑ । प॒वित्रे॑ । अ॒क्ष॒र॒न् । पु॒ना॒नः । वाच॑म् । इ॒ष्य॒ति॒ ॥प्र । धाराः । अस्य । शुष्मिणः । वृथा । पवित्रे । अक्षरन् । पुनानः । वाचम् । इष्यति ॥pra | dhārāḥ | asya | śuṣmiṇaḥ | vṛthā | pavitre | akṣaran | punānaḥ | vācam | iṣyati