Sukta 9.3
एष देवो विपा कृतोऽति ह्वरांसि धावति । पवमानो अदाभ्यः ॥
ए॒ष दे॒वो वि॒पा कृ॒तोऽति॒ ह्वरां॑सि धावति । पव॑मानो॒ अदा॑भ्यः ॥
eṣá devó vipā́ kṛtó ’tí hvárāṃsi dhāvati | pávamāno adā́bhyaḥ ||
This god, made wise in discernment, runs beyond the crookednesses; self-purifying, he is unassailable.
ए॒षः । दे॒वः । वि॒पा । कृ॒तः । अति॑ । ह्वरां॑सि । धा॒व॒ति॒ । पव॑मानः । अदा॑भ्यः ॥एषः । देवः । विपा । कृतः । अति । ह्वरांसि । धावति । पवमानः । अदाभ्यः ॥eṣaḥ | devaḥ | vipā | kṛtaḥ | ati | hvarāṃsi | dhāvati | pavamānaḥ | adābhyaḥ