Sukta 9.3
एष देवो अमर्त्यः पर्णवीरिव दीयति । अभि द्रोणान्यासदम् ॥
ए॒ष दे॒वो अम॑र्त्यः पर्ण॒वीरि॑व दीयति । अ॒भि द्रोणा॑न्या॒सद॑म् ॥
eṣá devó ámartyaḥ parṇavī́r iva dīyati | abhí dróṇāny ā́sadam ||
This is the god, the immortal Power: like a winged one he speeds; he presses on toward the vats, toward the settling-place.
ए॒षः । दे॒वः । अम॑र्त्यः । प॒र्ण॒वीःऽइ॑व । दी॒य॒ति॒ । अ॒भि । द्रोणा॑नि । आ॒ऽसद॑म् ॥एषः । देवः । अमर्त्यः । पर्णवीःइव । दीयति । अभि । द्रोणानि । आसदम् ॥eṣaḥ | devaḥ | amartyaḥ | parṇavīḥ-iva | dīyati | abhi | droṇāni | āsadam