Sukta 9.29
सप्तिं मृजन्ति वेधसो गृणन्तः कारवो गिरा । ज्योतिर्जज्ञानमुक्थ्यम् ॥
सप्तिं॑ मृजन्ति वे॒धसो॑ गृ॒णन्त॑: का॒रवो॑ गि॒रा । ज्योति॑र्जज्ञा॒नमु॒क्थ्य॑म् ॥
saptíṃ mṛjanti vedháso gṛṇántaḥ kārávo girā́ | jyótiḥ jajñānám ukthyàm ||
The seers, singing with their word, cleanse the coursing steed; the makers of hymn purify him—him who is born as Light, worthy of the high chant of realization.
सप्ति॑म् । मृजन्ति । वे॒धसः॑ । गृ॒णन्तः॑ । का॒रवः॑ । गि॒रा । ज्योतिः॑ । ज॒ज्ञा॒नम् । उ॒क्थ्य॑म् ॥सप्तिम् । मृजन्ति । वेधसः । गृणन्तः । कारवः । गिरा । ज्योतिः । जज्ञानम् । उक्थ्यम् ॥saptim | mṛjanti | vedhasaḥ | gṛṇantaḥ | kāravaḥ | girā | jyotiḥ | jajñānam | ukthyam