Sukta 9.29
प्रास्य धारा अक्षरन्वृष्णः सुतस्यौजसा । देवाँ अनु प्रभूषतः ॥
प्रास्य॒ धारा॑ अक्षर॒न्वृष्ण॑: सु॒तस्यौज॑सा । दे॒वाँ अनु॑ प्र॒भूष॑तः ॥
prā́sya dhā́rā akṣaran vṛ́ṣṇaḥ sutasyá ójasā | devā́m̐ ánu prabhū́ṣataḥ ||
Forth flow the streams of this strong One; by the pressed Soma’s might they run. They move in the wake of the Gods, adorning and empowering the divine workings within us.
प्र । अ॒स्य॒ । धाराः॑ । अ॒क्ष॒र॒न् । वृष्णः॑ । सु॒तस्य॑ । ओज॑सा । दे॒वान् । अनु॑ । प्र॒ऽभूष॑तः ॥प्र । अस्य । धाराः । अक्षरन् । वृष्णः । सुतस्य । ओजसा । देवान् । अनु । प्रभूषतः ॥pra | asya | dhārāḥ | akṣaran | vṛṣṇaḥ | sutasya | ojasā | devān | anu | pra-bhūṣataḥ