Sukta 9.28
एष वाजी हितो नृभिर्विश्वविन्मनसस्पतिः । अव्यो वारं वि धावति ॥
ए॒ष वा॒जी हि॒तो नृभि॑र्विश्व॒विन्मन॑स॒स्पति॑: । अव्यो॒ वारं॒ वि धा॑वति ॥
eṣá vājī hitó nṛ́bhir viśvá-vin mánasas pátiḥ | avyó vā́raṃ ví dhāvati ||
This Soma, the plenitude of force, is set in place by the human powers; the knower of all, lord of the mind, he runs wide through the woollen strainer, releasing the chosen currents.
ए॒षः । वा॒जी । हि॒तः । नृऽभिः॑ । वि॒श्व॒ऽवित् । मन॑सः । पतिः॑ । अव्यः॑ । वार॑म् । वि । धा॒व॒ति॒ ॥एषः । वाजी । हितः । नृभिः । विश्ववित् । मनसः । पतिः । अव्यः । वारम् । वि । धावति ॥eṣaḥ | vājī | hitaḥ | nṛ-bhiḥ | viśva-vit | manasaḥ | patiḥ | avyaḥ | vāram | vi | dhāvati