Sukta 9.26
तमह्यन्भुरिजोर्धिया संवसानं विवस्वतः । पतिं वाचो अदाभ्यम् ॥
तम॑ह्यन्भु॒रिजो॑र्धि॒या सं॒वसा॑नं वि॒वस्व॑तः । पतिं॑ वा॒चो अदा॑भ्यम् ॥
tám ahyan bhuríjoḥ dhiyā́ saṃvásānaṃ vivásvataḥ | pátiṃ vā́co adā́bhyam ||
Him they drove onward with abundant vision—clothed in the radiance of Vivasvat—him, the infallible lord of the Word.
तम् । अ॒ह्य॒न् । भु॒रिजोः॑ । धि॒या । स॒म्ऽवसा॑नम् । वि॒वस्व॑तः । पति॑म् । वा॒चः । अदा॑भ्यम् ॥तम् । अह्यन् । भुरिजोः । धिया । सम्वसानम् । विवस्वतः । पतिम् । वाचः । अदाभ्यम् ॥tam | ahyan | bhurijoḥ | dhiyā | sam-vasānam | vivasvataḥ | patim | vācaḥ | adābhyam